|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.77. अध्यायः 077
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति केकयराजोपाख्यानकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-77-0x(5536)(67837)
केषां प्रभवते राजा वित्तस्य भरतर्षभ।
कया च वृत्त्या वर्तेत तन्मे ब्रूहि पितामह॥ 12-77-1(67838)
भीष्म उवाच। 12-77-2x(5537)
अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम्।
ब्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत॥ 12-77-2(67839)
विकर्मस्थाश्च नोपेक्ष्या विप्रा राज्ञा कथंचन।
इति राज्ञां पुरावृत्तमभिजल्पन्ति साधवः॥ 12-77-3(67840)
यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः।
राज्ञ एवापराधं तं मन्यन्ते किल्विषं नृप॥ 12-77-4(67841)
अभिशस्तमिवात्मानं मन्यन्ते तेन कर्मणा।
तस्माद्राजर्षयः सर्वे ब्राह्मणानन्वपालयन्॥ 12-77-5(67842)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
गीतं केकयराजेन हियमाणेन रक्षसा॥ 12-77-6(67843)
केकयानामधिपतिं रक्षो जग्राह दारुणम्।
स्वाध्यायेनान्वितं राजन्नरण्ये संशितव्रतम्॥ 12-77-7(67844)
राजोवाच। 12-77-8x(5538)
न मे स्तेनो जनपदे न कदर्यो न मद्यपः।
नानाहिताग्निर्नायज्वा मा ममान्तरमाविशः॥ 12-77-8(67845)
न च मे ब्राह्मणोऽविद्वान्नाव्रती नाप्यसोमपः।
द्विजातिर्विषये मह्यं मा ममान्तरमाविशः॥ 12-77-9(67846)
नानाप्तदक्षिणैर्यज्ञैर्यजन्ते विषये मम।
नाधीते चाव्रती कश्चिन्मा ममान्तरमाविशः॥ 12-77-10(67847)
अध्यापयन्त्यधीयन्ते यजन्ते याजयन्ति च।
ददति प्रतिगृह्णन्ति षट्सु कर्मस्ववस्थिताः॥ 12-77-11(67848)
पूजिताः संविभक्ताश्च मृदवः सत्यवादिनः।
ब्राह्मणा मे स्वकर्मस्था मा ममान्तरमाविशः॥ 12-77-12(67849)
न याचन्ते प्रयच्छन्ति सत्यधर्मविशारदाः।
नाध्यापयन्त्यधीयन्ते यजन्ते याजयन्ति न॥ 12-77-13(67850)
ब्राह्मणान्परिरक्षन्ति सङ्ग्रामेष्वपलायिनः।
क्षत्रिया मे स्वकर्मस्था मा ममान्तरमाविशः॥ 12-77-14(67851)
कृषिगोरक्षवाणिज्यमुपजीवन्त्यमायया।
अप्रमत्ताः क्रियावन्तः सुवृत्ताः सत्यवादिनः॥ 12-77-15(67852)
संविभागं दमं शौचं सौहृदं च व्यपाश्रिताः।
मम वैश्याः स्वकर्मस्था मा ममान्तरमाविशः॥ 12-77-16(67853)
त्रीन्वर्णानुपतिष्ठन्ते यथावदनसूयकाः।
मम शूद्राः स्वकर्मस्था मा ममान्तरमाविशः॥ 12-77-17(67854)
कृपणानाथवृद्धानां दुर्बलातुरयोषिताम्।
संविभक्ताऽस्मि सर्वेषां मा ममान्तरमाविशः॥ 12-77-18(67855)
कुलानुरूपधर्माणां प्रस्थितानां यथाविधि।
अव्युच्छेत्ताऽस्मि सर्वेषां मा ममान्तरमाविशः॥ 12-77-19(67856)
तपस्विनो मे विषये पूजिताः परिपालिताः।
संविभक्ताश्च सत्कृत्य मा ममान्तरमाविशः॥ 12-77-20(67857)
नासंविभज्य भोक्ताऽस्मि न विशामि परस्त्रियम्।
स्वतन्त्रो जातु न क्रीडे मा ममान्तरमाविशः॥ 12-77-21(67858)
नाब्रह्मचारी भिक्षावान्भिक्षुर्वा ब्रह्मचर्यवान्।
अनृत्विजा हुतं नास्ति मा ममान्तरमाविशः॥ 12-77-22(67859)
`कृतं राज्यं मया सर्वं राज्यस्थेनापि कार्यवत्।
नाहं व्युत्क्रामितः सत्यान्मा ममान्तरमाविशः॥ ' 12-77-23(67860)
नावजानाम्यहं वैद्यान्न वृद्धान्न तपस्विनः।
राष्ट्रे स्वपति जागर्मि मा ममान्तरमाविशः॥ 12-77-24(67861)
`शुक्लकर्मास्मि सर्वत्र न दुर्गतिभयं मम।
धर्मचारी गृहस्थश्च मा ममान्तरमाविशः॥' 12-77-25(67862)
वेदाध्ययनसंपन्नस्तपस्वी सत्यधर्मवित्।
स्वामी सर्वस्य राष्ट्रस्य धीमान्मम पुरोहितः॥ 12-77-26(67863)
दानेन दिव्यानभिवाञ्छामि लोकान्
सत्येनाथ ब्राह्मणानां च गुप्त्या।
शुश्रूषया चापि गुरूनुपैमि
न मे भयं विद्यते राक्षसेभ्यः॥ 12-77-27(67864)
न मे राष्ट्रे विधवा ब्रह्मबन्धु
र्न ब्राह्मणः कितवो नोत चोरः।
नायाज्ययाजी न च पापकर्मा
न मे भयं विद्यते राक्षसेभ्यः॥ 12-77-28(67865)
न मे शस्त्रैरनिर्भिन्नं गात्रे व्द्यङ्गुलमन्तरम्।
धर्मार्थं युध्यमानस्य मा ममान्तरमाविशः॥ 12-77-29(67866)
गोब्राह्मणेभ्यो यज्ञेभ्यो नित्यं स्वस्त्ययनं मम।
आशासते जना राष्ट्रे मा ममान्तरमाविशः॥ 12-77-30(67867)
राक्षस उवाच। 12-77-31x(5539)
`नारीणां व्यभिचाराच्च अन्यायाच्च महीक्षिताम्।
विप्राणां कर्मदोषाच्च प्रजानां जायते भयम्॥ 12-77-31(67868)
अवृष्टिर्मारको दोषः सततं क्षुद्भयानि च।
विग्रहश्च सदा तस्मिन्देशे भवति दारुणः॥ 12-77-32(67869)
यक्षरक्षःपिशाचेभ्यो नासुरेभ्यः कथंचन।
भयमुत्पद्यते तत्र यत्र विप्राः सुसंयताः॥ 12-77-33(67870)
गन्धर्वाप्सरसः सिद्धाः पन्नगाश्च सरीसृपाः।
मानवान्न जिघांसन्ति यत्र नार्यः पतिव्रताः॥ 12-77-34(67871)
ब्राह्मणः क्षत्रिया वैश्या यत्र शूद्राश्च धार्मिकाः।
नाऽनावृष्टिभयं तत्र न दुर्भिक्षं न विभ्रमः॥ 12-77-35(67872)
धार्मिको यत्र भूपालो न तत्रास्ति पराभवः।
उत्पाता न च दृश्यन्ते न दिव्या न च मानुषाः॥ 12-77-36(67873)
यस्मात्सर्वास्ववस्थासु धर्ममेवान्ववेक्षसे।
तस्मात्प्राप्नुहि कैकेय गृहं स्वस्ति व्रजाम्यहम्॥ 12-77-37(67874)
येषां गोब्राह्मणा रक्ष्याः प्रजा रक्ष्याश्च केकय।
न रक्षोऽभ्यो भयं तेषां कुत एव तु पातकम्॥ 12-77-38(67875)
येषां पुरोगमा विप्रा येषां ब्रह्म परं बलम्।
सुरक्षितास्तथा विप्रास्ते वै स्वर्गजितो नृपाः॥ 12-77-39(67876)
भीष्म उवाच। 12-77-40x(5540)
तस्माद्द्विजातीन्रक्षेत ते हि रक्षन्ति रक्षिताः।
आशीरेषां भवेद्राजन्राज्ञां सम्यक्प्रवर्तताम्॥ 12-77-40(67877)
तस्माद्राज्ञा विशेषेण विकर्मस्था द्विजातयः।
नियम्याः संविभज्याश्च प्रजानुग्रहकारणात्॥ 12-77-41(67878)
एवं यो वर्तते राजा पौरजानपदेष्विह।
अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम्॥ ॥ 12-77-42(67879)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्तसप्ततितमोऽध्यायः॥ 77॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-77-8 मामकान्तरमाविभः इति ट. ड.थ. पाठः। मामकान्तरमाविशः इति झ. पाठः॥ 12-77-27 न पापकारी न च पापवक्ता इति ट.ड.थ.द. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|